इस्लामिक स्टेट् (ISIS) प्रेरितस्य आतङ्कवादिसमूहस्य द्वौ आतङ्कवादिनौ दिल्लीपुलिसद्वारा गृहीतौ। एतौ आतङ्कवादिनौ IED विस्फोटस्य सज्जतायाः अन्तिमपदे आस्ताम् इति पुलिस-अधिकारी अवदत्। ते आत्मघाती आक्रमणानां प्रशिक्षणं प्राप्तवन्त: आसन्। आतङ्कवादिद्वयेषु एकः दिल्लीनगरत: अपरः मध्यप्रदेशत: च गृहीतौ। दिल्लीपुलिसदलस्य विशेषगणेन उभौ आतङ्कवादिनौ गृहीतौ। उभौ आतङ्कवादिनौ भयङ्कर-आतङ्कवादी-सङ्गठने ISIS-समूहेन सह सम्बद्धौ आस्ताम् ।
चित्रम् - प्रतीकात्मकम्।





















