भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनस्य (ISRO) ४,००० किलोग्राम-भारस्य संचार-उपग्रहः CMS-03 (GSAT-7R) रविवासरे (नवम्बर-मासस्य २, २०२५) अन्तरिक्षे सफलतया प्रक्षिप्त:। एषः CMS-03 उपग्रहः भारतीयनौसेनायाः सर्वश्रेष्ठ: संचार उपग्रहः अस्ति, यः आन्ध्रप्रदेशस्य श्रीहरिकोटानगरस्य सतीशधवन-अन्तरिक्षकेन्द्रात् प्रक्षिप्त: अस्ति।
इसरो इत्यनेन उक्तं यत् अयम् उपग्रहः भारतीयभूमौ भूसमकालिकस्थानांतरणकक्षायां (GTO) अद्यपर्यन्तं प्रेषितेषु सर्वाधिकभारयुक्तः उपग्रहः अस्ति। उपग्रहस्य प्रक्षेपणं LVM3-M5 प्रक्षेपकस्य उपयोगेन कृतम्, यस्य उपनाम "बाहुबलि" इति अभवत्, यतः तस्य भारी उत्थापनक्षमता अस्ति।





















