अद्य मङ्गलवासरे (१७ फरवरी) मुम्बई-नगरे आयोजिते 'ग्लोबल-इकोनॉमिक-को-ऑपरेशन-समिट-२०२६' (GEC Summit) उद्घाटनसत्रे विदेशमन्त्री डॉ. एस. जयशंकरः सम्बोधितवान्। तेन उक्तं यत् अद्यतन-अनिश्चितविश्वे भारतं स्वशक्तिं वर्धयन् तथा च आपद् न्यूनीकुर्वत् एकः 'विश्वसनीय-सहयोगि' (Trusted Partner) रूपेण उदितम् अस्ति। जयशङ्करमहोदयेन स्पष्टीकृतं यत् सर्वकारस्य व्यावहारिक-नीतिभिः भारतं इदानीं वैश्विक-मञ्चे केवलं मूकदर्शकः नास्ति, अपितु एकस्याः 'निर्णायक-शक्तेः' (Decisive Power) पर्यायरूपेण कार्यं करोति। अस्मिन् अवसरे महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र-फडणवीसः अपि उपस्थितः आसीत्।





















