Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरस्य केन्द्रशासितक्षेत्रे हजरतबालदरगाहे क्रुद्धजनसमूहेन शुक्रवासरे उत्पात: कृत:। दरगाहस्य अन्तः स्थापिते शिलालेखे राष्ट्रचिह्नस्य अशोकस्तम्भस्य लेखनस्य कारणेन जनसमूह: क्रोधित: जात:। जनाः अशोकस्तम्भस्य शिलालेखात् निष्कासनस्य आग्रहं कृतवन्त:। जम्मू-कश्मीर-वक्फ-मण्डलस्य अध्यक्षः दरख्शां आंद्राबी इत्यनेन उत्पातस्य विरुद्धं प्राथमिकावेदनं कृत्वा पीएसए-अन्तर्गतं कार्यं कर्तुमाग्रह: कृत: अस्ति। तेन सत्ताधारिण: नेशनलकोन्फरन्स् इत्यस्य उत्तरदायित्वस्य आक्षेप: कृत: अस्ति। तेनोक्तं यत् यदि योग्यं पदं न स्वीकरिष्यते चेत् स: अन्नत्यागं करिष्यति इति।

अद्यतनवार्ता

भारतम्

विश्वम्