Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कर्णाटकराज्यस्य शिवमोग्गाजनपदस्य 'नन्दनाप्राथमिकशालायाः' एकं विज्ञापनपत्रं सामाजिक-माध्यमेषु (X) अतीव चर्चायाः विषय: जात:। अस्यां प्रसारपत्रे प्रथमकक्षायाः षड्वर्षीयाणां बालकानां 'प्रतिभा-सूची' (Toppers List) प्रदर्शिता।

शैक्षणिक-वर्षस्य (२०२५-२६) द्वितीय-सत्रस्य अस्यां सूच्यां दृश्यते यत् द्वौ बालकौ २०० अङ्केषु २०० अङ्कान् प्राप्तवन्तौ, अन्ये अपि छात्राः अल्पान्तरमात्रेण अङ्कान् लब्धवन्तः। लघुबालकानां कृते ईदृशी कठोरतुलना दृष्ट्वा अन्तर्जालप्रयोक्तारः चकिताः सन्ति। जनाः प्रश्नं कुर्वन्ति यत्— "किं एषा सफलतायाः चिह्नमस्ति, उत बालकानां 'सहज-बाल्यं' कर्षन्ती एका विषैली स्पर्धा?" आधुनिकशिक्षविद: अपि बाल्यकाले एव एतादृशं अङ्कयुद्धं तिरस्कुर्वन्ति । विश्वे अपि एतस्य तीव: विरोध: अस्ति परन्तु स्वसंस्थाया: उपलब्धिं प्रसारयितुं बालकानां उपयोग: किं योग्यम् ? किं सर्वकारेण एतादृश्या: स्पर्धाया: अनुमति: दत्ता अस्ति वा ? चिन्तनीय: विषय:......

अद्यतनवार्ता

भारतम्

विश्वम्