सर्वोच्चन्यायालयेन मङ्गलवासरे करुणानिधे: प्रतिमास्थापनप्रकरणे तमिलनाडुसर्वकारस्य भर्त्सनं कुर्वता उक्तं यत् राजनेतॄणां महिमामण्डनाय सार्वजनिकधनस्य उपयोगः किमर्थं करणीयः इति।
न्यायाधीशविक्रमनाथस्य न्यायाधीशस्य प्रशांतकुमारमिश्रस्य च पीठिकया उक्तं यत्, एतत् अनुमतं नास्ति। भवान् किमर्थं सार्वजनिकधनस्य उपयोगं स्वपूर्वनेतॄणां महिमामण्डनाय करोति? इति ।





















