एआईएमआईएम-दलस्य (AIMIM) नवनिर्वाचिता पार्षदा सहर-शेखः स्वस्य 'मुम्बई-नगरं हरितं करिष्यामः' इति विवादित-वक्तव्याय अद्य पुलिस-समक्षं लिखित-रूपेण क्षमां याचितवती। तया स्पष्टीकृतं यत् कस्यापि भावनां आहतां कर्तुं तस्याः उद्देश्यं न आसीत् तथा च सा आजीवनं भारतीय-राष्ट्रध्वजस्य कृते कार्यं करिष्यति। भाजपानेता किरीट-सोमैया-महोदयेन उक्तं यत् सहर-शेखः अल्पवयस: अस्ति, अतः वयं तस्याः क्षमायाचनां स्वीकुर्मः। किन्तु तेन एआईएमआईएम-दलोपरि गम्भीरः आरोपः कृतः यत् ते युवकानां नूतनवंशं 'कट्टरपन्थी' (Radical) कुर्वन्तः सन्ति। तेन चिन्ता व्यक्ता यत् एतादृशाः नेतारः मुस्लिमयुवकान् भ्रमितान् कुर्वन्ति, यत् देशस्य भविष्यस्य कृते उचितं नास्ति। सोमैया-महोदयेन अन्ते उग्रतया उक्तं यत् देवेन्द्र-फडणवीस-सर्वकारः मुम्बई-नगरे एतादृशीं विभाजनकारी-राजनीतिं कदापि न सहिष्यते।





















