सोमवासरात् मङ्गलवासरपर्यन्तं पश्चिमबङ्गस्य राजधान्यां कोलकातानगरे तत्समीपस्थेषु जनपदेषु च प्रचण्डवृष्ट्या सामान्यजीवनं बाधितं जातम्। जले विद्युत्प्रवाहकारणात् सप्त जनाः मृताः। कोलकाता-हावड़ा-क्षेत्रे बहूनि क्षेत्राणि जानुपर्यन्तं जलमग्नानि सन्ति, येन मार्गाः, रेलयानानि, मेट्रो-सेवाः अपि स्थगिताः अभवन् । विमानसेवा अपि प्रभाविता अस्ति। कोलकातानगरस्य नगरपते: फिरहादहकीमस्य मतेन विगतचतुर्दशकेषु सितम्बरमासे सर्वाधिकं ३०० मि.मी. वर्षा जाता अस्ति। अर्धरात्रेः अनन्तरं पञ्चघण्टापर्यन्तं प्रचण्डवृष्टिः अभवत्, येन कोलकातानगरस्य मार्गा: जलमग्ना: जाता:, अनेकानि गृहाणि, आवासीयक्षेत्राणि च प्लावितानि अभवन्। जलवायुविभागस्य मतानुसारम् इतोऽपि वर्षा भवितुं शक्नोति।





















