सुप्रसिद्धः कविः प्रखर-वक्ता च डॉ. कुमारविश्वास: उत्तराखण्डप्रवासे देहरादूननगरे आयोजिते कार्यक्रमे एकं तीक्ष्णम् उपहासात्मकं बाणम् अमुञ्चत्। तेन कञ्चित् विशिष्टं राजनैतिकदलं लक्षीकृत्य 'तैलप-जनता-दलम्' (कोकरोच जनता पार्टी) इति नाम्ना व्यङ्ग्य-चित्रं प्रस्तुतम्। स: अवदत् यत्— "बाल्यकाले मम माता मां तैलपायिकानां (Cockroaches) विषये बोधयति स्म। सा कथयति स्म यत् तैलपायिकाः गृहस्य अन्धकार-पूर्णेषु कोणेषु वसन्ति, सर्वदा यूथे तिष्ठन्ति, गृहस्य सुवस्तूनि च विनाशयन्ति। यत्र गच्छन्ति तत्र हानिं कुर्वन्ति। यथा गृहे तैलपायिकानां नाशाय जनाः औषधं प्रयुञ्जते, तथैव देशे अपि यदा एतादृशाः तैलपायिकाः उत्पन्नाः, तदा तान् दूरीकर्तुं समाजे पर्याप्तं तैलपायिका-विरोधि-औषधम् अपि वर्तते। अस्मिन् भयस्य कारणं नास्ति, औषधं स्वकार्यं सम्यक् करोति। यद्यपि तेन कस्यापि दलस्य वा व्यक्तितत्त्वस्य वा नाम साक्षात् न गृहीतम्, तथापि सामाजिक-माध्यमेषु अस्य वक्तव्यस्य महती राजनैतिकचर्चा प्रचलति।





















