लद्दाखनगरे हिंसायाः अनन्तरं लेहनगरे अधुना निषेधाज्ञा शिथिलीकृता अस्ति। अपराह्ने चतुर्घण्टापर्यन्तं विभिन्नक्षेत्रेषु चरणबद्धरूपेण निषेधस्य शिथिलीकरणं कृतम्। निषेधादेशे शिथिलतां प्राप्तमात्रेण एटीएम-केन्द्रेभ्य: बहिः बहुसंख्यकाः जनाः पङ्क्तिबद्धा: दृश्यन्ते स्म। सम्प्रति सम्पूर्णे क्षेत्रे असामान्यशान्तिः अस्ति, अप्रियघटना अपि न ज्ञाता। डीजीपी एस डी सिंह जमवाल इत्यनेन उक्तं यत् लेहनगरस्य पुरातनक्षेत्रे १ तः ३ पर्यन्तं, नवीनक्षेत्रेषु ३.३० तः ५.३० पर्यन्तं च निषेधादेशे मुक्ति: दत्ता अस्ति। अद्य लद्दाखस्य विधिव्यवस्थायाः स्थितिविषये उच्चस्तरीयसभा अपि आयोजिता।





















