खगोलशास्त्रज्ञानाम् अन्तरिक्षप्रेमिणां च कृते अयं रविवासरः अतीव विशेषः दिवसः अस्ति। अद्य भारतसहितस्य विश्वस्य अनेकेषु देशेषु पूर्णचन्द्रग्रहणं दृश्यमानं भविष्यति।
इदं पूर्णचन्द्रग्रहणं 'रक्तचन्द्र' रूपेण परिणंस्यति अर्थात् चन्द्रः रक्तवर्णीय: अपि च सामान्यतः बृहत्तरः च दृश्यमान: भविष्यति। एषा खगोलीयघटना पूर्वाफ्रिका-यूरोप-पश्चिम-ऑस्ट्रेलिया-भारतसहितेषु एशियाखण्डस्य अधिकांशेषु देशेषु आरम्भात् अन्तं यावत् स्पष्टतया दृश्यमान: भविष्यति। भारतीयसमयानुसारं रात्रौ ८:५८ वादने ग्रहणस्य आरम्भः भविष्यति। पूर्णचन्द्रग्रहणं (रक्तचन्द्रचरणम्) रात्रौ ११:०० वादनतः प्रातः १२:२२ वादनपर्यन्तं भविष्यति। चन्द्रग्रहणस्य समाप्तेः समयः अर्धरात्रेः अनन्तरं अर्थात् ८ सेप्टेम्बर् दिनाङ्के प्रातः २:२५ वादने भविष्यति।





















