Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादनगरस्थे पालडी-शिशुगृहे निवसतोः विनायकस्य विघ्नेशस्य च भाग्यं प्रकाशितम् । फ्रान्सदेशतः निरपत्यौ दम्पती अपत्यप्राप्त्यर्थम् अहमदाबादनगरं आगतौ। शिशुगृहे निवसतोः विघ्नेशविनायकयोः स्नेहः उत्पन्नः । तयोः भाग्यं प्रकाशितम् । फ्रान्सस्थः जेरेलीम प्लेटिन तस्य पत्नी च मेरेलिन लेटिन च ताभ्यां अहमदाबादस्य आरक्षि-मुख्यायुक्तस्य ए.के.सिंगवर्यस्य उपस्थितौ विधिवत् दत्तकत्वेन द्वावपि स्वीकृतौ। सामान्यं जीवन्ं जीवन्तौ तौ अधुना सुखवैविध्यपूर्णं जीवनं यापयिष्यतः। स्वप्नेषु पेरिस सादृशानां नगराणां कल्पनां कुर्वन्तौ तौ तादृशेषु महानगरेषु वासं करिष्यतः । सत्यमेव उक्तं – ईश्वरः यत् करोति शोभनं करोति।

अद्यतनवार्ता

भारतम्

विश्वम्