महाराष्ट्रराज्यस्य राजनीतौ अतीव दुःखदः आघातजनकः च समाचारः प्राप्तः। बुधवासरे (२८ जनवरी) प्रातःकाले एकस्यां भीषणविमानदुर्घटनायां राज्यस्य उपमुख्यमन्त्री तथा च एनसीपी-नेता अजित-पवारः पञ्चत्वं गतः।
अजित-पवारः स्वस्य 'चार्टर-विमानेन' मुम्बई-तः बारामतीनगरं गच्छन् आसीत्। प्रातः ८:४५ वादने बारामतीविमानपत्तने अवतरण-काले विमानं सन्तुलनं विहाय भूमौ पतितं, तदनन्तरं तत्र भीषणाग्निः प्रज्वलितः। अस्यां घटनायां तेन सह द्वौ वैमानिकौ, एकः सुरक्षा-अधिकारी (PSO) तथा च एका परिचारिका इति आहत्य पञ्च (५) जनाः मृताः। दिवङ्गतनेतुः पार्थिवदेहस्य अन्त्येष्टि-संस्कारः श्वः (गुरुवासरे) प्रातः ११ वादने बारामतीनगरे भविष्यति। अस्मिन् दुःखदसमये मुख्यमन्त्री देवेन्द्र-फडणवीसः तथा उपमुख्यमन्त्री एकनाथशिन्दे बारामतीं प्राप्तवन्तौ। प्रधानमन्त्रिणः नरेन्द्रमोदिनः अपि अन्त्येष्टौ सम्मिलितुं सम्भावना वर्तते।
घटनायाः गम्भीरतां दृष्ट्वा 'एरक्राफ्ट् एक्सिडेण्ट् इन्वेस्टिगेशन् ब्यूरो' (AAIB) तथा 'डीजीसीए' (DGCA) इत्यनयोः दलानि घटनास्थलं प्रति प्रस्थितानि। प्राप्तप्रतिवेदनानुसारं प्रभातकालकारणात् दृष्यता सम्यक् न आसीत्। अवतरणस्य प्रथमे प्रयत्ने निष्फलतानन्तरं द्वितीये प्रयत्ने आकाशे एव विमानेन संतुलनं त्यक्तं अपि च विमानपथस्य पाश्वे पतितमासीत्।





















