दीर्घकालात् प्रवर्धमानस्य सङ्घर्षस्य परिणामस्वरूपम् इजरायल-देशस्य रक्षा-मन्त्रिणा स्पष्टीकृतं यत् तेषां सेनया ईरानदेशस्य राजधानीं 'तेहरान' नगरम् अन्यान् प्रदेशान् च उद्दिश्य महान् प्रहारः कृतः। अस्य प्रत्याक्रमणे ईरानदेशेन अपि इजरायलस्थितेषु अमेरिकासैन्यशिबिरेषु प्रहारः विहितः। सूत्रानुसारं 'मीनाब' विद्यालये जाते विस्फोटकप्रहारे षट्त्रिंशत् (३६) छात्राणां मृत्योः आशङ्का वर्तते।
सर्वोच्चनेतुः 'खामेनेई' इत्यस्य भूमिगत-वासस्य प्रवादाः राष्ट्रिय-सुरक्षा-परिषदा तस्य नूतनचित्रं प्रकाश्य खण्डिताः। विदेशमन्त्रालयेन अयम् आक्रमणव्यापारः राष्ट्रियसम्प्रभुतायाः, संयुक्तराष्ट्रसङ्घस्य द्वितीय-अनुच्छेदस्य च स्पष्टम् उल्लङ्घनम् उद्घोषितः। "यदा कूटनीतिक-वार्ता प्रचलति स्म, तदा एव अयम् आघातः विहितः, वयम् अस्मै अपराधाय शत्रुभ्यः कठोर-दण्डं दास्यामः" इति ईरान-देशेन दृढ-सङ्कल्पः प्रकटितः। अस्मिन् युद्ध-सङ्कटे खात-देशेषु सङ्कटग्रस्तेभ्यः भारतीयेभ्यः भारत-सर्वकारेण 'पूर्वसूचना' (Advisory) तथा च साहाय्याय आपत्कालीन-सम्पर्क-सङ्ख्याः त्वरितम् प्रसारिताः सन्ति।





















