राजस्थाने चूरू-श्रीगङ्गानगरे मरुभूमौ भीषण-उष्णतायाः मध्ये सहसा ऋतु-परिवर्तनं जातम्। शनिवासरे मध्याह्ने प्रतिहोरं ७० कि.मी. वेगेन प्रचण्डा धूलि-सहिता वात्या आगता। अनया वात्यया त्रिंशन्निमेषान् (३० मिनट) यावत् मार्गगमनं जनजीवनं च सर्वं रुद्धम्। आकाशे धूलिकायाः विशाला भित्तिः उदिता, येन सूर्यस्य प्रकाशः आच्छादितः, मध्याह्ने एव घोरः अन्धकारः सञ्जातश्च। तदनन्तरं वर्षा अभवत्, येन तापमानं ८ अंश-सेल्सियस परिमितं न्यूनं जातम्। जनाः तीव्रात् तापात्, शुष्क-वायो: च आश्वासं प्राप्तवन्तः। अत्र कापि जनधनहानिः न अभवत्।





















