अमेरिकातः यूरोप-ऑस्ट्रेलिया-देशपर्यन्तं डोनाल्ड ट्रम्प-विरुद्धं "नो किङ्ग्स्"-विरोधाः विशाल-जन-आन्दोलनानि च जायमानानि सन्ति। राष्ट्रपते: डोनाल्डट्रम्पस्य नीतीनां निरङ्कुशवृत्तेः च विरोधं कर्तुं सहस्रश: नागरिकाः वीथिषु निर्गताः। लन्दन-मैड्रिड्-वाशिङ्गटन-बोस्टन्-अटलाण्टा-शिकागो-लॉस्-एन्जल्स-इत्यादिषु प्रमुखनगरेषु, तथैव कतिपयाषु रिपब्लिकन-राज्यानां राजधानीषु प्रायः २५०० स्थानेषु जना: युगपत् विरोधं प्रदर्शितवन्त: सन्ति। आन्दोलनकारिणः लोकतन्त्रस्य रक्षणस्य आग्रहं कुर्वन्ति, तै: स्पष्टतया उक्तं यत् अधुना योग्यदेशभक्तिः सत्ताविरोधे अस्ति, न तु अन्धसमर्थने। सैन्फ्रांसिस्कोनगरस्य ओशनबीच् इत्यत्र विरोधरूपेण शतशः जनाः स्वशरीरे "NO KING" इति पट्टिकां धृत्वा विरोधं प्रकटितवन्त:। ते वदन्ति यत् देशस्य लोकतान्त्रिकपरिचयः संकटग्रस्तः अस्ति।





















