पश्चिमबङ्गराज्यस्य राजनीतौ पुनः एक: नूतन: विक्षोभ: उद्भूत: अस्ति। तृणमूल-काङ्ग्रेस-दलेन (TMC) निलम्बितः पूर्व-विधायकः हुमायूँ कबीरः अद्य विधिवत् स्वस्य नवीन-राजनैतिक-दलस्य घोषणां कृतवान्। कोलकाता-महानगरे स्थिते 'प्रेस-क्लब' इति स्थाने आयोजितायाम् एकास्यां पत्रकारपरिषदि हुमायूँ कबीरः स्वस्य नूतनस्य दलस्य नाम 'जनता-उन्नयन-पार्टी' इति घोषितवान्। स: स्वदलस्य भविष्यस्य योजनाः अपि स्पष्टीकृतवान्। सः उदघोषितवान् यत् तस्य नवीनं दलं 'जनता-उन्नयन-पार्टी' आगामिनि २०२६ तमे ख्रिष्टाब्दे भविष्यमाणे पश्चिमबङ्ग-विधानसभा-निर्वाचने राज्यस्य सर्वासु चतुर्नवत्युत्तर-द्विशत-विधानसभा-स्थानेषु (२९४) पूर्णशक्त्या भागं ग्रहीष्यति।
पूर्वं तेन अयोध्यायां राममन्दिरेण सह बाबरी-मस्जिद-निर्माणस्य विषये यत् विवादास्पदं निवेदनं दत्तम्, तस्य तीव्रा आलोचना जाता आसीत्। तदनन्तरं दल-विरोधि-कार्यकलापानां कारणात् तृणमूल-नेतृत्वेन सः षण्वर्षाणां कृते दलात् निलम्बितः कृतः। निर्वाचन-आयोगेन अपि तस्य प्रचार-कार्येषु प्रतिबन्धः स्थापितः आसीत्। राज्ये बाबरीमस्जिदनिर्माणयोजना कारणात् पुनश्च स: चर्चायामागत:।





















