स्वातन्त्र्यदिनोत्सवस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी ‘सप्तधारा’-योजनया ग्रामीणार्थव्यवस्थायाः सशक्तीकरणाय आह्वानम् अकरोत्। अस्मिन् सङ्कल्पे कृषिः, सागरसम्पदः (ब्लू इकोनामी), नारी-उद्यमिता च प्रधानानि अङ्गानि सन्ति। सः कृषिपदार्थानां वैश्विकविपणौ (अन्तार्राष्ट्रियविपणौ) निर्याताय बलं प्रादात्। रासायनिकद्रव्यरहितायाः प्राकृतकृषेः, सागरोत्पादानां च व्यापाराय महती सम्भावना वर्तते इति सः अवदत्। महिलानाम् आर्थिकोन्नत्यै षट्कोटि-मिताः 'लखपतिदीदी'-सदस्याः भवेयुः इति लक्ष्यं निर्धारितम्। कृषिक्षेत्रे आर्थिकसाहाय्यं प्रदाय कर्षकाणां व्ययभारः न्यूनीकृतः इति अपि प्रधानमन्त्रिणा स्पष्टीकृतम्।





















