Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बिहारराज्यस्य नाલन्दाजनपदे कश्चन अतीव हृदयविदारकः वृत्तान्ततः सम्प्राप्तः। चैत्रमासस्य अन्तिमभौमवासरे शीतलामातृमन्दिरे दर्शनार्थं समागतायां महत्यां जनमण्डल्यां अकस्मात् जनसम्मर्दः जातः। अस्यां दुर्घटनायाम् अधुना यावत् अष्टौ (८) भक्ताः पञ्चत्वं गताः, अनेके च  अभवन्। आरक्षकैः प्रबन्धकैः च उद्धार-कार्यं (Rescue operation) प्रारब्धम्।

अस्याः विपत्तेः मुख्यं कारणं प्रशासनस्य प्रमादः कथ्यते। यतः राष्ट्रपतेः द्रौपदी-मुर्मू-महोदयायाः नालन्दाविश्वविद्यालयस्य दीक्षान्तसमारोहे उपस्थितेः कारणात् सर्वं राजकीयबलं तत्रैव नियुक्तम् आसीत्। मन्दिरे आरक्षकाणाम् अभावात् भक्ताः श्रेणीं भङ्क्त्वा अग्रे गन्तुं प्रयतन्तः आसन्, येन इयं जनसम्मर्द: जात:। अधुना क्षतविक्षताः जनाः चिकित्सालये उपचाररताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्