सम्पूर्णे भारते सम्प्रति षड् वायुमण्डलीयप्रणाल्यः सक्रियाः वर्तन्ते। दक्षिण-पश्चिम-राजस्थानप्रान्ते चक्रवातीयसञ्चारः तथा वङ्गसमुद्रे नूतनं न्यूनभारक्षेत्रं जातम्। अस्य प्रभावेण गुर्जरराज्ये षड्दिनानि यावत् मन्द-मध्यम-वृष्टेः सम्भावना वर्तते। ऋतुविज्ञानविभागस्य अनुमानेन उत्तर-मध्य-दक्षिणभागेषु तीव्रवातेन सह धारासम्पातः भविष्यति। बनासकाण्ठा-पाटण-महेसाणा-साबरकाण्ठा-प्रभृतिषु जनपदेषु त्रिंशत्त: चत्वारिंशत्-किलोमीटर-प्रतिघण्टा-वेगेन वायुः प्रवहति। दक्षिणगुर्जरस्य तापी-डाङ्ग-नवसारी-वलसाड-जनपदेषु अतिवृष्टेः कारणात् पीतवर्णीया सूचना घोषिता अस्ति। नागरिकाः सचेतनाः भवेयुः इति प्रशासनेन सूचितम्।





















