Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्यतने डिजिटल-युगे शिक्षापद्धतौ महत् परिोवर्तनं जायमानम् अस्ति। एतत् विचार्य राष्ट्रियशैक्षिक-अनुसन्धानप्रशिक्षण-परिषदा (NCERT) बालानां, अभिभावकानां, शिक्षकाणां च कृते कृत्रकप्रज्ञा (AI) आधारितम् 'ई-मैजिक-बॉक्स' (e-Magic Box) इति नूतनं डिजिटल-माध्यमं प्रारब्धम्। अस्य उद्देश्यं बालानां शिक्षणं क्रीडारूपेण आनन्ददायकं करणीयम् अस्ति।

अस्मिन् डिजिटल-माध्यमे कथाः, गीतानि, ज्ञानवर्धक-क्रीडाः च सन्ति। अत्र त्रीणि मुख्य-AI-यन्त्राणि (Bots) त्वरितं प्रश्नानां समाधानं कुर्वन्ति - 

१. कथा-सखी - एषा बालकेभ्यः रोचककथानां निर्माणं करोति, येन तेषां जिज्ञासा वर्धते। 

२. अभिभावक-तारा  एषा मातापित्रोः प्रश्नानां समाधानं कृत्वा बालपोषणविषये मार्गदर्शनं यच्छति। 

३. शिक्षिका-तारा - एषा शिक्षकेभ्य: कक्षायां गतिविधि-आधारित-पाठनस्य नूतन-उपायान् सूचयति।

विना 'स्मार्टफोन' अपि उपयोगः सम्भवः: अस्य अभिनव-प्रयोगस्य विशेषत्वम् अस्ति यत् एतत् न केवलम् ऐप-माध्यमेन, अपितु 'व्हाट्सएप' (WhatsApp) तथा 'टेलीग्राम' (Telegram) इत्यनयोः अपि उपलब्धम् अस्ति। येषां परिवाराणां पार्श्वे स्मार्टफोन-यन्त्रं नास्ति, ते १८००-२१२-०१७३ (1800-212-0173) अथवा १५१०८ (15108) इति निःशुल्क-दूरभाष-क्रमाङ्के (IVRS) सम्पर्कं कृत्वा अस्य लाभं ग्रहीतुं शक्नुवन्ति। एषा सर्वथा निःशुल्का व्यवस्था शिक्षा-क्षेत्रे क्रान्तिकारि-परिवर्तनं सम्पादयिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्