बिहारविधानसभानिर्वाचनपरिणामानुसारं एन.डी.ए. इत्यनेन भव्य: विजय: प्राप्त: अस्ति। विजयानन्तरं प्रधानमन्त्री नरेन्द्रमोदी दिल्लीनगरे भाजपा-मुख्यालयं प्राप्तवान्। यत्र सः दलकार्यकर्तृभ्यः सम्बोधितवान्। तेन सह मञ्चे भाजपा अध्यक्ष जेपी नड्डा, केन्द्रीय गृहमन्त्री अमित शाह, रक्षामन्त्री राजनाथ सिंह: च उपस्थिता: आसन्। प्रधानमन्त्री मोदी लोकनायकजयप्रकाशनारायणं तथा कर्पूरीठाकुरं च प्रणम्य ’जय छठी मैया; इति उद्घोषेण वक्तव्यस्य आरम्भं कृत्वा अवदत् यत् अहं कर्पूरी ठाकुरजी इत्यस्य ग्रामात् निर्वाचनप्रचारं आरब्धवान् इति। अयं प्रचण्डविजय: विश्वासस्य विजय: अस्ति। कट्टासर्वकार: पुन: कदापि न आगमिष्यति। कतिपयदलै: MY (मम) सूत्रं दत्तमासीत् परन्तु अद्यतनविजयेन भावात्मक: MY (महिला-युवा) सूत्रं प्रस्तुतमस्ति। पुरातनस्य अरण्यशासनस्य साम्प्रदायिकविचारस्य MYसूत्रस्य उपरि महिला-युव-MY इति सूत्रस्य विजय: अस्ति इति।





















