एनडीए प्रत्याशी सीपी राधाकृष्णन् मङ्गलवासरे यथा अपेक्षितं नूतन-उपराष्ट्रपतिरूपेण निर्वाचितः। सः ४५२ मतानि प्राप्तवान्, विपक्षस्य प्रत्याशी सुदर्शन रेड्डी ३०० मतानि प्राप्तवान्। एवं राधाकृष्णन् १५२ मतैः विजयं प्राप्तवान् । १५ विपक्षस्य सांसदाः प्रतिमतदानं कृतवन्तः। राज्यसभायाः महासचिवः, रिटर्निंग् आफिसरः च पीसी मोदी मङ्गलवासरे सायं उपराष्ट्रपतिनिर्वाचनस्य परिणामस्य घोषणां कुर्वन् अवदत् यत् आहत्य ७८१ सांसदेषु ७६७ सांसदाः स्वस्य मताधिकारस्य प्रयोगं कृतवन्तः, यस्य परिणामेण ९८.२ प्रतिशतं मतदानं जातम्। परन्तु ७६७ मतेषु ७५२ मतानि वैधानि १५ मतानि च अमान्यानि आसन्, येन विजयाय आवश्यकं बहुमतं ३९२ तः ३७७ यावत् न्यूनीभूतम्। एनडीए प्रत्याशी, वर्तमानः महाराष्ट्रराज्यपालः च सीपी राधाकृष्णन् तमिलनाडु-भाजपा-पक्षस्य वरिष्ठः नेता अस्ति अपि च तस्य पृष्ठभूमि: संघत: अस्ति।





















