Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नेपालदेशे संजातेन दारुणेन जलप्लावेन सीमावर्तिनि उत्तरभारते महती विपत्तिः समुत्पन्ना वर्तते। विगतयोः द्वयोः दिनयोः उत्तरप्रान्तस्य महाराजगञ्ज-कुशीनगर-मण्डलयोः गण्डकीनद्याः वेगातिरेकात् नेपालदेशात् प्रवहन्तः दश मृतदेहाः प्राप्ताः। भारतीय-प्रशासनिक-अधिकारिणः मृतानां परिचय-ज्ञानाय नेपालस्य अधिकारिभिः सह सम्पर्कं कुर्वन्ति। नद्याः तीरे मृतशरीरैः सह भग्नानि वाहनानि, गृहोपकरणानि, काष्ठादीनि च समागतानि। जलस्य तीव्रोत्पातात् भीतानां नागरिकाणां सुरक्षार्थं प्रशासनं नदीतटं प्रति न गन्तुं जनान् सावधानान् करोति। सीमासुरक्षाबलं तथा विपन्निवारकदलं च सर्वत्र सततं दृष्टिं रक्षतः।

अद्यतनवार्ता

भारतम्

विश्वम्