नेपालदेशे तिब्बतसीमासमीपे भोटेकोशीनद्याम् अकस्मात् महत्या जलौघवृद्ध्या भीषणः प्लावनिपातः जातः। अनेन जलप्लावेन पञ्चनवतिः (९५) जनाः मृताः, शतशः ग्रामाः सेतु-विद्युत्परियोजनाश्च विनाशिताः। पर्यटनविभागस्य वृत्तान्तानुसारं त्रयस्त्रिंशदधिकशतं (१३३) भारतीयान् अन्तर्भाव्य ४६३ जनाः अद्यापि निमग्नाः अप्रवृत्ताश्च सन्ति। संकटेऽस्मिन् साहाय्यार्थं नेपालप्रशासनेन दूरभाषसङ्ख्याः प्रख्यापिताः। नेपालसैन्येन तथा भारतस्य सीमासुरक्षाबलैः (SSB) जनरक्षणकार्यं वेगेन क्रियते। गण्डकीनद्याः जलवृद्धिम् अवलोक्य बिहारराज्येऽपि महती सतर्कता विहिता।





















