Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयजनतापक्ष: योग्यकाले योग्यनीतौ किमपि आश्चर्यं जनयति इति सर्वविदितमस्ति। भूपेन्द्रपटेलस्य मुख्यमन्त्रित्वेन प्रथमवारं चयनं तस्य एकमुदाहरणमासीत्। एतस्मिन् पर्याये अपि दीपावलिपूर्वे एव अचानकं सर्वकारस्य सर्वै: मन्त्रिभि: पक्षस्यादेशानुसारं स्वेच्छया स्वत्यागपत्रं दत्तम्। एतेन राजकीयदलेषु अधिकारिषु च नैके प्रश्ना: उद्भूता: आसन्। तदनन्तरं नूतनमन्त्रिभि: शपथग्रहणं कृतमासीत्। एतस्य मन्त्रिमण्डलस्य कानिचन आश्चर्यकारकतथ्यानि अपि सन्ति।

पक्ष: सर्वदा सुनिश्चितं करोति यत् मन्त्रिणः राज्यस्य सर्वेभ्यः प्रमुखक्षेत्रेभ्यः भवन्तु। एतत् निर्वाचनमूलस्य, सुदृढीकरणस्य क्षेत्रीयसंतुलनस्य च सुसंगतं प्रतिमानम् अस्ति।

पक्ष: प्रत्येकं मन्त्रिमण्डलविस्तारे सर्वेषां प्रमुखजातीनां समुदायानाञ्च प्रतिनिधित्वं करोति। नूतने मन्त्रिमण्डले आश्चर्यं तत् यत् अत्र पक्षद्वारा नूतननेतॄणां समावेश: कृत: अस्ति यान् सामान्यजना: सम्यक् न जानन्ति परन्तु ते मन्त्रिणः सामुदायिकसन्तुलने उपयुक्ता: सन्ति। 

कार्यनीत्यनुसारं नूतनेभ्य: दायित्वं, पुरातनानां दायित्वमुक्ति:, निष्कासनं, केभ्यश्चित् प्रमुखनेतृभ्य: च पुन: अवसर: भारतीयजनतादलस्य लाक्षणिकता अस्ति। एतेन जनानां मध्ये आश्चर्यं, चर्चा च उद्भवन्ति।

कतिपयनेतृणां नियुक्तिः अथवा निष्कासनं दलस्य आगामिनिर्वाचनरणनीत्याः सम्भाव्यसंघटनस्य च संकेतं ददाति। अस्मिन् समये उपमुख्यमन्त्रिण: नियुक्तिः, दलं प्रविष्टवतेभ्य: कोंग्रेसनेतृभ्यः महत्त्वपूर्णमन्त्रालयानां दायित्वं च आश्चर्यकारकमेव।

अस्मिन् मन्त्रिमण्डले अपेक्षाननुगुणं तिस्र: महिलाः सम्मिलिताः, यत् प्रथमवारं गुजरातराज्ये अभवत्। दलस्य नीत्यनुसारं योग्यं कार्यं कृतवद्भ्य: योग्यं दायित्वं कार्यकर्तॄणां कृते दल्स्य प्रतिष्ठां वर्धयति यथा युवानेतु: गृहराज्यमन्त्रिण: हर्षसंघवी इत्यस्य नूतनमन्त्रिमण्डले उपमुख्यमन्त्रिरूपेण नियुक्ति:। रिवाबाजाडेजा अपि २०१९तमे वर्षे पक्षं प्रविश्य, २०२२तमे वर्षे निर्वाचनं जितवती। अघुना अल्पवयसि एव शिक्षणमन्त्रिरूपेण कार्यं करिष्यति इति महिलासशक्तिकरणस्य उदाहरणं प्रस्तुतम्। अन्ततो गत्वा एतत् परिवर्तनं आगामिनिर्वाचनस्य सिद्धतायै प्रस्तुतं इति निश्चितमस्ति। एतेन ज्ञायते यत् आगामिनिर्वाचने पक्षद्वारा युवान: महिला: च लक्ष्यीकृत्य कार्यं करिष्यति इति।

अद्यतनवार्ता

भारतम्

विश्वम्