Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयराष्ट्रियराजमार्गप्राधिकरणेन (NHAI) 'फास्टैग' वार्षिकपारपत्रस्य नाम्ना प्रचलन्त्याः महत्याः वञ्चनायाः (Fraud) विषये जनसाधारणं प्रति प्रबोधिका (Advisory) निर्गता। अस्मिन् कौटल्ये (Scam) तस्कराः वास्तविकजालस्थानसदृशानि (Website-like) कूटजालस्थानानि निर्माय जनान् वञ्चयन्ति। एते वञ्चकाः 'गूगल-सर्च' मध्ये स्वकीयं कूट-पोर्टाल् अग्रस्थाने दर्शयितुं वित्तपोषितविज्ञापनानां (Paid Ads) प्रयोगं कुर्वन्ति।

प्राधिकरणेन स्पष्टीकृतं यत् एतानि कूटजालस्थानानि प्रयोगकर्तॄणां भ्रमणभाषसङ्ख्यां, यान-पञ्जीकरणसङ्ख्यां तथा च वित्तव्यवहारविवरणम् (Payment details) याचन्ते। धनराशिप्रदानानन्तरं सा राशिः साक्षात् वञ्चकानां कोशे गच्छति, परं प्रयोगकर्त्रे किमपि वैधप्रमाणपत्रं न लभ्यते। गृहमन्त्रालयस्य भारतीय-सायबर-अपराध-समन्वय-केन्द्रेणापि अस्य विषये चिन्ता प्रकटीकृता।

अद्यतनवार्ता

भारतम्

विश्वम्