भारतीयवाहनव्यवहारक्षेत्रे आगामिकाले महान् व्यतिक्रमः भविष्यति। केन्द्रपरिवहनमन्त्री नितिनगडकरी 'बस-वर्ल्ड इण्डिया २०२६' सम्मेलने वाहननिर्माणसंस्थाः प्रति स्पष्टप्रबोधनं दत्तवान्। तेन उक्तं यत्- "भारतं अधुना तैल-इन्धनात् सर्वदा दूरीभवति।" अस्य कठोरनिर्णयस्य पृष्ठे वैश्विकसंघर्ष: मुख्यं कारणम् अस्ति। विशेषतः अमेरिका-ईजरायल-ईरान-देशानां सङ्घर्षेण ऊर्जासङ्कटं उत्पन्नम्। भारतं ऊर्जाक्षेत्रे 'स्वनिर्भरम्' भवितुम् इच्छति। स: पञ्च वैकल्पिक-इन्धनानां उपरि बलं दत्तवान्:
१. हरित-हाइड्रोजन (Hydrogen): सर्वकारः मुख्य-दश-मार्गेषु हाइड्रोजन-चालितयानानां 'पायलट-प्रकल्पं' आरभते।
२. विद्युत्-यानानि (EV): विद्युत्-यानानां उत्पादनं त्रिगुणीकर्तुं आह्वानं कृतम्।
३. इथेनॉल (Ethanol): 'फ्लेक्स-फ्यूअल' (Flex-fuel) यन्त्राणां निर्माणाय संस्थाः प्रेरिताः।
४. सीएनजी (CNG): प्रदूषण-निवारणाय अयं श्रेष्ठः विकल्पः।
५. एलएनजी (LNG): भारवाहकानां कृते द्रवीकृत-प्राकृतिक-वायूनाम् (LNG) उपयोगः वर्धनीयः।
AI Image only for presentation