भारतीय-जनता-पक्षस्य (भाजपा) नूतन-राष्ट्रिय-अध्यक्षस्य निर्वाचन-प्रक्रिया अद्य सम्पन्नताम् अगच्छत्। देशस्य सत्तारूढदलस्य अस्मिन् सर्वोच्चपदे पक्षस्य वर्तमानकार्यकारी-अध्यक्षः श्रीनितिन-नवीनः सर्वसम्मत्या 'निर्विरोधरूपेण' निर्वाचितः अस्ति। प्राप्त-समाचारानुसारम्, अध्यक्षपदस्य कृते नितिन-नवीनस्य समर्थने आहत्य ३७ (सप्तत्रिंशत्) नामांकन-पत्राणि प्रस्तुतानि आसन्। यद्यपि तस्य चयनं सुनिश्चितं जातम्, तथापि अस्य विषये विधिवत् (औपचारिक) घोषणा श्वः, अर्थात् २० जनवरी दिनाङ्के भविष्यति। भाजपा-सङ्घटन-पर्वणः राष्ट्रिय-निर्वाचन-अधिकारी डॉ. के. लक्ष्मण-महोदयेन स्पष्टीकृतं यत् देशस्य ३६ राज्येषु ३० राज्यानां सङ्घटनात्मक-निर्वाचनानन्तरम् इयं संवैधानिक-प्रक्रिया अतीव पारदर्शितया सम्पन्ना। तेन घोषितं यत् नामांकनपत्राणां परीक्षणोपरान्तं तथा च आवेदनपुन:स्वीकरणस्य अवधेः समाप्तेः परम्, अन्तिमे केवलं श्रीनितिन-नवीनस्य नाम एव अध्यक्ष-पदाय प्रस्तावितं अवशिष्टम्। अतः नियमानुसारं सः निर्विरोधं अध्यक्षः निर्वाचितः।





















