Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

'विश्वस्वास्थ्यदिवसं' लक्ष्यीकृत्य एकस्या: वैयक्तिकचिकित्सालयशृङ्खलायाः अभ्यासेन कश्चन भयावहः वृत्तान्त: प्रकटितः। अस्मिन् अभ्यासे ३० लक्षं जनानां स्वास्थ्यपरीक्षणं कृतम्। तस्य निष्कर्षानुसारं भारते प्रतियुवकत्रये द्वौ असाङ्क्रामिकरोगैः (Non-communicable diseases - NCD) ग्रस्तौ भवितुं शक्नुतः। अतीव चिन्तायाः विषयः अस्ति यत् त्रिंशत् वर्षेभ्यः न्यूनवयस्केषु पञ्चसु एकः (१/५) जनः ’प्राक्-मधुमेह' (Pre-diabetic) इति स्थितौ अस्ति। कर्मचारि-वर्गेषु तु अर्ध-संख्याकाः (५०%) जनाः मधुमेहग्रस्ताः अथवा तत्पूर्वावस्थायां सन्ति, तथा च दशसु अष्टौ (८०%) भाराधिक्येन (Overweight) पीडिताः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्