सेना-दिवसात् (Army Day) पूर्वं आयोजितायां वार्षिकपत्रकारपरिषदि भारतीयस्थलसेनाध्यक्षः जनरल्-उपेन्द्रद्विवेदी महोदयेन सीमाविवादम् अधिकृत्य एकं महत्त्वपूर्णं तथा कठोरं वक्तव्यं दत्तम्। 'स्थितिः स्थिरा किन्तु संवेदशीला' सेनाप्रमुखेन स्पष्टीकृतं यत् वास्तविकनियन्त्रणरेखायां (LAC) सम्प्रति स्थितिः यद्यपि 'स्थिरा' दृश्यते, तथापि सा अत्यन्तं संवेदनशीला' अपि वर्तते। तेन देशं आश्वस्तं कृतं यत् भारतीयसेना कस्यापि प्रकारकस्य आकस्मिकसमस्याया: प्रतिकारं कर्तुं पूर्णतया सज्जा अस्ति। दुस्साहसस्य प्रभावि उत्तरं प्राप्स्यन्ति शत्रव:। अस्मिन् क्रमं तेन सूचितं यत् सीमा-सुरक्षायै 'ऑपरेशन-सिन्दूर' (Operation Sindoor) न स्थगितम्, अद्यापि प्रचलति। विगत-घटनाभिः उभयोः देशयोः मध्ये विश्वासः खण्डितः जातः अस्ति, यस्य पुनर्निर्माणं सुकरं नास्ति। भारतस्य लक्ष्यं सीमायां 'अप्रैल-२०२०' इत्यस्य पूर्व-स्थितिं पुनः प्राप्तुं वर्तते।





















