Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य संसद: शीतकालीनसत्रे विशेषगहनसमीक्षा अर्थात् निर्वाचनसूचीपुनरीक्षणविषये चर्चायां विपक्षनेता तथा काङ्ग्रेससांसद: राहुलगान्धी केन्द्रसर्वकारस्य निर्वाचन-आयोगस्य प्रवर्तननिदेशालयस्य (ईडी), सीबीआई, राष्ट्रीयस्वयंसेवकसंघस्य च उपरि आक्रमणमकरोत्। तस्य आरोपैः सदने महान् कोलाहलः जातः। स: निर्वाचनसूचीपुनरीक्षणस्य विषये वदन् सङ्घस्य उपरि प्रबलाक्रमणं कृतवान्। तेनोक्तं यत्  ‘आरएसएस सर्वा: संस्था: स्वीकर्तुं इच्छति। देशस्य सर्वेषां विश्वविद्यालयानां कुलपतय: आरएसएसतः एव सन्ति।’ एतत् श्रुत्वा सत्ताधारिदलस्य सदस्याः कोलाहलं आरब्धवन्तः। तदनन्तरं सभापतिः ओम बिरला काङ्ग्रेसनेतारं केवलं SIR विषये एव वक्तुं कथितवान्। 

अद्यतनवार्ता

भारतम्

विश्वम्