पञ्जाबराज्यस्य पटियालामण्डले सोमवारे रात्रौ शम्भू-अम्बाला-रेल-मार्गे कश्चन तीव्रः विस्फोटः सञ्जातः, येन सुरक्षासंस्थाः चिन्ताकुलाः अभवन्। रात्रौ दशवादने मालवाहिकानां यानानां कृते आरक्षिते रेलमार्गे अयं स्फोटः अभवत्, येन रेलमार्गस्य क्षतिः अभवत्। गाम्भीर्यं दृष्ट्वा पटियालामण्डलस्य आरक्षकाधीक्षकः (SSP) वरुणशर्मामहोदयः तथा च उच्चाधिकारिणः स्थलम् आगताः। आरक्षकैः सूचितं यत् अयं 'मन्द-तीव्रतायुक्तः' (Low-intensity) विस्फोटः आसीत्, यस्य परीक्षणं वैज्ञानिक-अन्वेषण-दलेन क्रियते। अस्यां घटनायां विस्मयकारी विषयः अयं यत् विस्फोटस्थलस्य समीपतः कश्चन अज्ञातशवः प्राप्तः। अस्य पुरुषस्य मृत्युः विस्फोटेन अभवत् उत अन्यकारणेन, इति विषये अनुसन्धानं प्रचलति।





















