राष्ट्रियराजधानीक्षेत्रे वर्धमानं प्रदूषणं नियन्त्रयितुं वायुगुणवत्तापरिष्काराय च महान् निर्णयः कृतः अस्ति। स्वायुगुणवत्ताप्रबन्धनआयोगेन (CAQM) आदेशः दत्तः यत् नोएडा तथा ग्रेटर नोएडा इत्यत्र ई-वाणिज्यस्य, ऑनलाइनवितरणसेवासु च पेट्रोल-डीजलवाहनानां प्रतिबन्धः कृतः अस्ति। इदं २०२६ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य प्रवर्तते तदनन्तरं वितरणसमवायेभ्य:: पेट्रोल-डीजल-द्वीचक्रि-त्रिचक्रि-व्यवसायिकयानानां (LCV/LGV) उपयोगं कर्तुं अनुमतिः न भविष्यति। एतस्य प्रत्यक्षः प्रभावः Swiggy, Zomato, Blinkit, Amazon, Flipkart इत्यादिषु बृहत्समवायेषु सहस्रश: वितरणसमवायेषु च भविष्यति।





















