Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नेपालदेशस्य नूतनप्रधानमन्त्री बालेन्द्रशाह: कार्यभार-ग्रहणानन्तरं प्रथमवारं संसद् सम्बोधितवान्। भाषणे सः भारतेन सह उद्भूतं दीर्घकालीनं सीमा-विवादं निराकर्तुं बलं दत्तवान्। प्रधानमन्त्रिणा प्रोक्तं यत्— "वयं भारतेन सह स्वकीय-लम्बित-सीमा-विवादस्य समाधानं राजनैतिक-प्रयासैः सम्भाषणेन च (कूटनीति-माध्यमेन) करिष्यामः।" सः अवदत् यत् नेपालसर्वकारः भारतेन सह मैत्रीपूर्णसम्बन्धं रक्षितुं दृढ-सङ्कल्पः अस्ति। 'लिपुलेख-लिम्पियाधुरा' क्षेत्रस्य विवादे सर्वकारः ब्रिटेन देशस्यापि साहाय्यं नेष्यति, यतो हि अस्य विवादस्य मूलं ब्रिटिशशासने अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्