Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकस्यां जनसभायां सम्बोधनकाले प्रधानमन्त्री नरेन्द्रमोदी देशस्य आर्थिकसुरक्षायै नागरिकेभ्यः दशसङ्कल्पानां आह्वानं कृतवान्। तेन उक्तं यत् वैश्विकयुद्धस्य कारणेन ईन्धनस्य उर्वरकस्य च मूल्यं गगनस्पर्शी जातम्, यस्य प्रभावः भारतस्य वैदेशिकमुद्राकोषे (Foreign Exchange) भवति। अतः देशहिताय संवर्धनाय च अधोनिर्दिष्टाः सङ्कल्पाः आवश्यकाः सन्ति:

दश-सङ्कल्पानां विवरणम्:

  1. स्वर्णक्रयणस्य त्यागः- एकवर्षं यावत् स्वर्णं मा क्रीणीत, येन आयात-व्ययः न्यूनः भवेत्।
  2. ईन्धनसंयमः- पेट्रोल-डीजल-इत्यादीनां ईन्धनानां प्रयोगं संयमपूर्वकं कुर्वन्तु।
  3. 'गृहतः कार्यम्' (WFH)- ईन्धनरक्षणाय पुनः 'वर्क-फ्रॉम-होम' तथा अन्तर्जालगोष्ठीभ्यः प्राथमिकतां यच्छन्तु।
  4. सार्वजनिकयानम्:- मेट्रो-रेलयानं अथवा अन्यसार्वजनिकवाहनानां प्रयोगं कुर्वन्तु।
  5. सहयानम् (Car Pooling)- यदि वैयक्तिकयानं आवश्यकं तर्हि एकाधिकजनैः सह यात्रां कुर्वन्तु।
  6. विदेशभ्रमणत्यागः- एकवर्षं यावत् विदेशपर्यटनं अथवा विवाहोत्सवेषु विदेशगमनं त्यजन्तु; स्वदेशे एव भ्रमणं कुर्वन्तु।
  7. वैदेशिकमुद्रारक्षणम् - अनावश्यकव्ययं न्यूनीकृत्य देशस्य आर्थिकस्थितिं सुदृढां कुर्वन्तु।
  8. उत्पादकनिवेशः- स्वर्णापेक्षया धनं बैङ्क-एफ़डी, एसआईपी अथवा शेयर-विपण्यां निवेशयन्तु।
  9. आत्मनिर्भरता- तादृशानि पदानि गृह्णन्तु येन भारतं 'आत्मनिर्भरं' भवेत्।
  10. वैश्विकसङ्कटबोधः: युद्धस्य कारणेन उत्पन्नां आर्थिकस्थितिं गम्भीरतया गृह्णन्तु।

अद्यतनवार्ता

भारतम्

विश्वम्