Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य प्रधानमन्त्री नरेन्द्रमोदी देशस्य सुदीर्घकालं यावत् निरन्तरं सेवां कुर्वाण: प्रथमः निर्वाचितः प्रधानमन्त्री सञ्जातः। सः स्वकार्यकालस्य ४,३९९ दिनानि सफलीकृत्य प्रथम-प्रधानमन्त्रिणः जवाहरलालनेहरो: पुरातनं कीर्तिमानं उल्लङ्घितवान् । अस्मिन् ऐतिहासिक-अवसरे प्रधानमन्त्रिणा प्रोक्तं यत्— "जनसेवैव सुशासनस्य महती परीक्षा वर्तते।" अमेरिका-देशस्य राजदूतेन 'सर्जियो गोर' महोदयेन अपि सामाजिकप्रसार-माध्यमेन प्रधानमन्त्रिणे शुभाशयाः प्रेषिताः। नेहरू-महोदयस्य कार्यकाले आरम्भिक-वर्षाणि विना-निर्वाचनं आसन्, इन्दिरागान्धिन: कार्यकालः च खण्डितः आसीत्। परन्तु मोदी-महोदयः २०१४, २०१९, २०२४ तमवर्षेषु निरन्तरं प्रचण्ड-जनादेशं प्राप्य देशस्य नेतृत्वं करोति।

अद्यतनवार्ता

भारतम्

विश्वम्