प्रधानमन्त्री नरेन्द्रमोदी सम्प्रति दक्षिणाफ्रिकादेशस्य प्रवासं कुर्वन् अस्ति। सः शुक्रवासरे जोहान्सबर्ग्-नगरस्य विमानस्थानकं प्राप्तवान् यत्र तस्य भव्यं स्वागतं जातम्। अफ्रीकादेशस्य स्थानीयकलाकाराः पारम्परिकनृत्यं कृत्वा प्रधानमन्त्रिण: मोदिन: स्वागतं कृतवन्तः। यस्य चित्राणि सामाजिकमाध्यमेषु अपि प्रसरितानि। ज्ञातव्यं यत् दक्षिण-आफ्रिकादेशे जी-२० शिखरसम्मेलनं भवति। यत्र प्रधानमन्त्री नरेन्द्र मोदी भारतस्य दृष्टिकोणं प्रस्तोष्यति। सः शिखरसम्मेलनस्य त्रीणि प्रमुखसत्राणि सम्बोधयिष्यति।
शुक्रवासरे प्रधानमन्त्री आस्ट्रेलियादेशस्य प्रधानमन्त्रिणा एन्थोनी अल्बानेस् इत्यनेन सह जोहान्सबर्ग्नगरे द्विपक्षीयवार्तां कृतवान्। रक्षा-खनिज-व्यापार-निवेश-शिक्षा इत्यादिषु विषयेषु द्वयोः देशयोः नेतारौ चर्चां कृतवन्तः । वैश्विक आतङ्कवादविरुद्धं युद्धम् अधिकं सुदृढं कर्तुं द्वयोः नेत्रो: सहमतिः अभवत् । दिल्ली-आतङ्कवादी-आक्रमणे, सऊदी-अरब-देशे बस-दुर्घटनायां च ये भारतीयाः प्राणान् त्यक्तवन्तः, तेषां प्रति आस्ट्रेलिया-प्रधानमन्त्री शोकं प्रकटितवान् ।





















