प्रधानमन्त्रिणः नरेन्द्रमोदिन: अध्यक्षतायां मङ्गलवासरे आयोजितायां केन्द्र-मन्त्रिमण्डलस्य उपवेशने केचन प्रमुखाः प्रस्तावाः स्वीकृताः। विशेषतः पश्चिम-एशिया-क्षेत्रे वर्धमानस्य संघर्षस्य प्रभावात् भारतस्य रक्षणाय अस्मिन् उपवेशने गम्भीरा चर्चा अभवत्। विश्वस्त-सूत्रानुसारं प्रधानमन्त्रिणा सर्वे मन्त्रिणः मन्त्रालयाश्च निर्दिष्टाः यत् ते परस्परं समन्वयं स्थापयन्तु येन वैदेशिक-सङ्घर्षस्य प्रभावः भारतस्य सामान्यनागरिकेषु न्यूनतमः भवेत्। तेन सम्भाव्य-आह्वानैः सह योद्धुं पूर्णसज्जतायै निर्देशः दत्तः। मुख्यरूपेण सामान्यजनानां कृते महानस-वाष्पस्य (LPG) आपूर्तिः स्थिरा भवेत् तथा कोऽपि विक्षेप: न उत्पद्येत् इति विषये सर्वकारेण आश्वासनं दत्तम्। अयं निर्णयः देशस्य आर्थिक-स्थिरतायै महान् उपशमः इति मन्यते।





















