भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इटलीदेशस्य द्विपक्षीयप्रवासे अस्ति, यत्र तेन सह इटलीदेशस्य प्रधानमन्त्रिण्या जॉर्जिया-मेलोनी संयुक्तां वार्ताहर-गोष्ठीं (Press Conference) सम्बोधितवती। अस्मिन् अवसरे मेलोनी हिन्दीभाषया लोकप्रियां सूक्तिं वदन्ती अवदत् यत्— "परिश्रमः एव सफलतायाः कुञ्जिका अस्ति" (Hard work is the key to success)।
मेलोनी स्वसम्बोधने भारतीयप्रधानमन्त्रिणं स्वस्य 'मित्रम्' इति सम्बोधितवती। सा अवदत् यत्— "विगतेषु २६ वर्षेषु कस्यापि भारतीय-प्रधानमन्त्रिणः अयं प्रथमः द्विपक्षीय-प्रवासः अस्ति, येन उभयोः देशयोः सम्बन्धाः इतिहासस्य सर्वोच्च-शिखरे प्राप्ताः।" अयं प्रवासः राजनैतिक-आर्थिक-सांस्कृतिक-दृष्ट्या अतीव युगपरिवर्तनकारी मन्यते।





















