देशस्य आर्थिकहितं तथा च ईन्धनरक्षणं ध्यात्वा प्रधानमन्त्री स्वयम् एकं प्रशंसनीयं पदं स्थापितवान्। तेन स्वकीयां सुरक्षां निर्वहन्ती 'स्पेशल-प्रोटेक्शन-ग्रुप' (SPG) इति संस्था आदिष्टा यत् तस्य यानसमूहे (Convoy) वाहनानां सङ्ख्या पञ्चाशत्प्रतिशतं (५०%) पर्यन्तं न्यूनीकरणीया। अनेन सन्देशेन सः अन्यमन्त्रिणः सर्वकारीयविभागान् च मितव्ययितायै प्रेरयति।
१. ई-वाहनानां (EV) प्रयोगः- प्रधानमन्त्री स्वयानव्यूहे विद्युत्-चालितानां वाहनानां प्रयोगं प्रोत्साहितवान्, परं तेन स्पष्टीकृतं यत् एतदर्थं किमपि नवीनं वाहनं न क्रेतव्यं येन राजकोषे भारः न भवेत्।
२. वैश्विक-परिस्थिति:- पश्चिम-एशिया-क्षेत्रे (ईरान-युद्धम्) सङ्घर्षकारणेन तैलस्य मूल्यं वर्धितम् अस्ति। यद्यपि भारते षष्टि-दिनानां (६० Days) तैल-भण्डारः अस्ति, तथापि भविष्यत्-सुरक्षायै वैदेशिकमुद्रारक्षणं अनिवार्यं वर्तते।
३. सुरक्षामर्यादा: एस.पी.जी. संस्था 'ब्लू-बुक' इति नियमानां पालनं कुर्वती यान-न्यूनतायै कार्यं प्रारब्धवती।





















