अद्य (२८/११/२०२५) प्रधानमन्त्रिणा नरेन्द्रमोदिना गोवा-राज्यस्य पर्तगालीनगरे स्थिते श्रीसंस्थान गोकर्ण जीवोत्तम-मठे भगवत: श्रीरामस्य ७७ पादपरिमितस्य विश्वस्य सर्वोच्चप्रतिमाया: प्रतिमायाः अनावरणं कृतम्। एकताप्रतिमायाः परिकल्पनाकारः प्रसिद्धः शिल्पकारः रामसूतारः एव अस्याः प्रतिमायाः परिकल्पनाम् अकरोत् ।
रामस्य ७७ पादपरिमिता एषा प्रतिमा कांस्यनिर्मिता अस्ति। अनावरणात् पूर्वं प्रधानमन्त्री मठस्थले दर्शनं कृत्वा पूजां कृतवान्। उल्लेखनीयं यत् अयं मठ: भारतस्य प्राचीनतमेषु मठेषु अन्यतम: इति मन्यते। अस्य मठस्य सारस्वतसमुदाये प्रमुखं स्थानं वर्तते।





















