Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

'AI-इम्पैक्ट-लीडरशिप-समिट-२०२६' इत्यस्मिन् प्रधानमन्त्रिणा नरेन्द्र-मोदिना कृत्रकप्रज्ञायाः (AI) कृते 'मानव' (MANAV) इति नूतन-दृष्टिकोणः (Vision) प्रस्तुत:। तेन उक्तं यत् विश्वे द्विप्रकाराः जनाः सन्ति—केचन AI-तन्त्रज्ञाने 'भयं' पश्यन्ति, अन्ये च तत्र 'भाग्यं' पश्यन्ति। भारतीयाः अत्र भाग्यं पश्यन्ति।

प्रधानमन्त्रिणा 'MANAV' (मानव) इत्यस्य पञ्च-मूल-सिद्धान्ताः एवं स्पष्टीकृताः:

  • M (Moral and Ethical System): नैतिक-व्यवस्था, अर्थात् AI नीति-निर्देशेषु आधारितं भवेत्।

  • A (Accountable Governance): उत्तरदायि-शासनम् (पारदर्शिनः नियमाः)।

  • N (National Sovereignty): राष्ट्रिय-सम्प्रभुता (यस्य दत्तांशः/Data, तस्यैव तत्र अधिकारः)।

  • A (Accessible and Inclusive): सुलभं समावेशि च (AI कस्यापि एकाधिकारः न स्यात्, अपितु सर्वसुलभं भवेत्)।

  • V (Valid and Legitimate): वैधं न्यायसङ्गतं च।

मोदिना 'GPS' इत्यस्य उदाहरणं दत्त्वा उक्तं यत्, "यथा GPS मार्गं दर्शयति किन्तु गन्तव्यस्य अन्तिम-निर्णयः अस्माकं भवति, तथैव वयं AI-तन्त्रज्ञानं यस्यां दिशायां नेष्यामः, तादृशम् एव अस्माकं भविष्यं निर्मीयते।" तेन आह्वानं कृतं यत् भावि-सन्तत्यै सुरक्षितां तन्त्रज्ञान-व्यवस्थां दातुम् अस्माकं महत्तरम् उत्तरदायित्वम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्