देशस्य राजधान्याम् आयोजिते अन्ताराष्ट्रिये 'इण्डिया AI इम्पैक्ट समिट' (India AI Impact Summit) कार्यक्रमे 'यूथ-काङ्ग्रेस' इत्यस्य वस्त्रहीन-प्रदर्शनं (Shirtless protest) लक्ष्यीकृत्य प्रधानमन्त्री नरेन्द्र-मोदी काङ्ग्रेसदलोपरि तीक्ष्णं प्रहारं कृतवान्। मेरठनगरे जनसभां सम्बोधयन् मोदिना काङ्ग्रेसदलस्य कार्यशैल्याः तीव्रा भर्त्सना कृता। प्रधानमन्त्रिणा उक्तं यत्, "काङ्ग्रेसदलेन भारतस्य एकं वैश्विकम् आयोजनं स्वस्य मलिनराजनीतेः क्रीडाभूमि: (अखाडा) कृता। वैदेशिक अतिथीनां सम्मुखे काङ्ग्रेस-नेतारः वस्त्राणि अवतार्य आगतवन्तः। अहं तान् पृच्छामि यत् सम्पूर्णः देशः जानाति यत् यूयं पूर्वमेव नग्नाः स्थ, तर्हि पुनः वस्त्राणि अवतारयितुं का आवश्यकता आसीत्?" एतत् कृत्यं दर्शयति यत् देशस्य प्राचीनतमं दलम् अद्य वैचारिकरूपेण कियत् दरिद्रं जातम् अस्ति। तेन ग्राम्यविवाहस्य उदाहरणं दत्तं यत् ग्रामेषु अपि विवाहे सति सर्वे मिलित्वा अतिथीनां सत्कारं कुर्वन्ति येन ग्रामस्य उत्तमं चित्रं भवेत्, किन्तु काङ्ग्रेस-दलं निजराष्ट्रम् एव वैदेशिकानां पुरतः कलङ्कितं कर्तुं प्रयतते। काङ्ग्रेस-नेतारः मयि द्वेषं कुर्वन्ति, तत् सर्वं वयं सोढुं शक्नुमः, परन्तु इदं शिखर-सम्मेलनं कस्यापि राजनैतिकदलस्य न, अपितु सम्पूर्णदेशस्य कार्यक्रमः आसीत्। तेन क्षोभः प्रकटितः यत् सम्पूर्णः देशः अस्य निर्लज्जकृत्यस्य तीव्रां निन्दां कुर्वन् अस्ति, तथापि एते नेतारः लज्जाम् अनुभूय मौनं विहाय मिथ्यालापं कुर्वन्ति।





















