पश्चिम-एशिया-क्षेत्रे प्रवृद्धं महत् सङ्कटं दृष्ट्वा प्रधानमन्त्रिणा नरेन्द्रमोदिमहोदयेन लोकसभायां राष्ट्रं प्रबोधितम्। तेन प्रतिपादितं यत् अस्मिन् आपत्काले यथा पूर्वं कोरोनाकाले भारतीयप्रजा: एकीभूय सङ्घर्षं कृतवत्यः, तथैव अधुनापि अविच्छिन्न-ऐक्यं प्रदर्शनीयम्। सङ्कटस्य लाभं ग्रहीतुं केचन असत्यवादिनः समाजविघातकीं मिथ्यावार्तां प्रसारयिष्यन्ति, अतः सर्वेषां सावधानता अनिवार्या। यः कोऽपि सङ्ग्रह-कर्ता खाद्य-सामग्रीणाम् अवरोधं करिष्यति, तं प्रति सर्वकारः कठोरं दण्डनीतिं प्रयोक्ष्यति। भारते ५३ लक्षं मेट्रिक-टन् परिमितः इन्धन-निधिः सुरक्षितः अस्ति, अतः राष्ट्रस्य ऊर्जा-सुरक्षा अक्षुण्णा भविष्यति इति तेन आश्वासनं दत्तम्।
चित्रं - प्रतीकात्मकम्





















