प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे (१८ जून् २०२६) फ्रान्सदेशस्य पेरिसनगरे भारतीयसमुदायस्य जनान् सम्बोधितवान्। सः अवदत् यत् पेरिसनगरं वर्णानां नगरम् अस्ति, यत् भारतस्य विभिन्नराज्येभ्यः आगताः नागरिकाः अधिकं सुन्दरं कुर्वन्ति। अस्मिन् अवसरे प्रधानमन्त्रिणा स्वस्य द्वादशवर्षाणां (१२ वर्ष) शासनकालस्य कार्याणां उल्लेखः कृतः। तेन प्रतिपादितं यत् भारतस्य सकलस्थानिकोत्पादः (GDP) द्विगुणितः जातः, भारतं च विश्वस्य द्वितीयः बृहत्तमः चलदूरभाषनिर्माता (Mobile Manufacturer) देशः सञ्जातः। भारतस्य अस्याः प्रगतेः एव अयं परिणामः यत् अद्य भारतं विश्वस्य तीव्रतया वर्धमाना मुख्या अर्थव्यवस्था (Fastest Growing Major Economy) अस्ति। विगतेषु १२ वर्षेषु देशे पञ्चविंशतिकोटिः (२५ करोड़) जनाः दारिद्र्यात् मुक्ताः अभवन्। फ्रान्सदेशे आहत्य यावन्ति गृहाणि सन्ति, तस्मात् अपि अधिकानि सुदृढगृहाणि अस्माभिः गतेषु १२ वर्षेषु निर्धनेभ्यः निर्मितानि। अधुना प्रत्येकं परिवारस्य समीपे वित्तकोषलेखा (Bank Account) वर्तते।





















