कथ्यते यत् वैटिकननगरस्य धर्माध्यक्षेण पोपलियोद्वारा अमेरिकादेशस्य राष्ट्रपतिना डोनाल्डट्रम्प इत्यनेन सह जाते वाग्युद्धे स्वस्य निर्भीकता प्रकटीकृता। 'एसोसिएटेड-प्रेस्' (AP) इत्यस्मै दत्तवचने सः उक्तवान् यत् शान्ति-स्थापनार्थं कृता अस्मदीया प्रार्थना राजनीतिप्रेरिता नास्ति। यः युद्धं प्रेरयति, तस्य प्रार्थना ईश्वरः न शृणोति इति तेन ट्रम्पसर्वकारस्य युद्धनीतेः तीक्ष्णा आलोचना कृता। धर्माध्यक्षस्य मतेन इरानयुद्धसहितं विश्वस्य विविधसङ्घर्षेषु शान्तिस्थापनमेव Gospel इत्यस्य मुख्यः सन्देशः अस्ति। सः दृढतया उक्तवान् यत् वयं कस्यापि सर्वकारस्य प्रभावेण स्वमार्गं न त्यक्ष्यामः, युद्धस्य विरोधं च निरन्तरं करिष्यामः।





















