Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतसर्वकारस्य गृहराज्यमन्त्रिणा राजनाथसिंहेन उद्घोषितं यत् भारतीयवायुसेनया पाकिस्तानाधिकृतकश्मीरस्य बालाकोटविस्तारे कृते आक्रमणे कति आतङ्किनः मृताः इत्यस्य विवरणं शीघ्रमेव प्रकाश्यते। तेन प्रतिपादितं यत् भारतस्य नेशनल-ट्कनोलोजी-रिसर्च-ओर्गेनाइझेशन (एन.टी.आर.ओ.)द्वारा सर्वकाराय सूचितं यत् भारतीयसेनया यत्र वाय्वाक्रमणं कृतं तत्र त्रिशताधिकाः भ्रमणभाषाः सक्रियाः आसन्। भाजपादलस्य अध्यक्षेण अमितशाहेनापि एतस्मिन् आक्रमणे २५०तः अधिकाः आतङ्किनः मृताः सन्ति।

भारतीयवायुसेनायाः वीरसैनिकानां शौर्यस्य उपरि शङ्का राहुल-ममता-अखिलेश-महेबुबा-सोनिया-दिग्विजयादिनां महागठबन्धनस्य निर्वाचनमायाजालस्य दुष्प्रभावः एव अस्ति। सत्ताधारिपक्षं विद्रोहयन्तः एते मायाविनः परोक्षरूपेण मातृभूमिरक्षार्थं स्वात्मानम् आहूतिरूपेण समर्पयतां वीरयोद्धानां द्रोहं कुर्वन्तः सन्ति इत्यत्र ना कोऽपि संशयः ।

अद्यतनवार्ता

भारतम्

विश्वम्