नवमे 'अन्ताराष्ट्रिय-सन्थाल-सम्मेलने' भागं ग्रहीतुं यदा राष्ट्रपतिः द्रौपदी-मुर्मू-महोदया मञ्चम् आरूढवती, तदा सम्मुखे रिक्तान् आसन्दान् दृष्ट्वा सा विस्मिता अभवत्। आयोजकानाम् आरोपः अस्ति यत् सुरक्षाकारणात् प्रशासनेन निमन्त्रितजनेभ्यः 'प्रवेश-पत्राणि' (Security passes) न दत्तानि, येन जनाः कार्यक्रमे आगन्तुं न अशक्नुवन्। एतां विसंगतिं ज्ञात्वा राष्ट्रपतिः मूल-आयोजनस्थलं 'बिधाननगरं' गतवती। तत्रत्यां विशालां भूमिं दृष्ट्वा सा अवदत्— "अहं वङ्गस्य पुत्री, अत्रैव सम्मेलनं कर्तुम् इच्छामि स्म, परं राज्यसर्वकारेण किमर्थं प्रतिबन्धः कृतः? ममता मम अनुजा भगिनी इव अस्ति, कदाचित् सा मह्यं क्रुद्धा अस्ति, अतः एव सा मह्यम् अनुमतिं न दत्तवती।" अस्मिन् प्रवासे न केवलं मुख्यमन्त्री अपितु कोऽपि मन्त्री अपि राष्ट्रपति-महोदयायाः स्वागताय नागतः, यत् 'प्रोटोकॉल' (राजमर्यादा) इति नियमस्य उल्लङ्घनं मन्यते। यद्यपि शिलीगुड़ी-नगरस्य महापौरः गौतम-देबः अवदत् यत् सः प्रशासन-पक्षतः उपस्थितः आसीत्, तथापि आयोजन-स्थलस्य वारं वारं परिवर्तनेन सुरक्षा-बाधाभिः च राष्ट्रपतिः व्यथिता दृश्यते स्म। सा तत्र 'शाल-वृक्षस्य' आरोपणं कृत्वा निर्गतवती।





















