Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

काङ्ग्रेस-दलस्य नेता राहुलगान्धी महाराष्ट्रस्य पुण्यपत्तननगरे (पुणे) विद्यार्थिनीभिः सह संवादम् अकरोत्। तत्र सः मनुस्मृते: सन्दर्थं विपरितरूपेण प्रस्तुयता अवदत् यत् महिलानाम् अस्तित्वं केवलं पित्रा, पत्या अथवा पुत्रेण सह न वर्तते, अपितु तासां स्वतन्त्रम् अभिज्ञानं भवितव्यम्। नारीणां स्वातन्त्र्यम् अनिवार्यम् अस्ति। समाजे तासां स्वकीया प्रतिष्ठा भवेत्। राहुलगान्धी युवतीः स्वाधिकाराणां रक्षणार्थम् उच्चैः स्वरम् उत्थापयितुं, गर्वम् अनुभोक्तुं तथा च स्वावलम्बिनीः भवितुम् प्रेरितवान्। तस्य सम्भाषणस्य विरोधं कुर्वता  अमितमालवीयेन उक्तं यत् कांग्रेसदलं स्वार्थाय हिन्दूधर्मग्रन्थान् विकृत्य असत्यं प्रचारयति। अतः राजनैतिकलाभाय वक्तव्यात् पूर्वं राहुल-महोदयेन सम्पूर्णः ग्रन्थः साङ्गोपाङ्गं पठनीयः आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्